वांछित मन्त्र चुनें

प्रेतो मु॒ञ्चामि॒ नामुत॑: सुब॒द्धाम॒मुत॑स्करम् । यथे॒यमि॑न्द्र मीढ्वः सुपु॒त्रा सु॒भगास॑ति ॥

अंग्रेज़ी लिप्यंतरण

preto muñcāmi nāmutaḥ subaddhām amutas karam | yatheyam indra mīḍhvaḥ suputrā subhagāsati ||

पद पाठ

प्र । इ॒तः । मु॒ञ्चामि॑ । न । अ॒मुतः॑ । सु॒ऽब॒द्धाम् । अ॒मुतः॑ । क॒र॒म् । यथा॑ । इ॒यम् । इ॒न्द्र॒ । मी॒ढ्वः॒ । सु॒ऽपु॒त्रा । सु॒ऽभगा॑ । अस॑ति ॥ १०.८५.२५

ऋग्वेद » मण्डल:10» सूक्त:85» मन्त्र:25 | अष्टक:8» अध्याय:3» वर्ग:24» मन्त्र:5 | मण्डल:10» अनुवाक:7» मन्त्र:25


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इतः प्रमुञ्चामि) हे वधु ! इस पितृकुल से तुझे मैं पुरोहित पृथक् करता हूँ (अमुतः-न) उस पतिगृह से नहीं पृथक् करता हूँ (अमुतः सुबद्धां करम्) वहाँ पति के साथ कल्याणबद्ध सुस्नेहबद्ध  तुझे करता हूँ (मीढ्वः-इन्द्र) हे वीर्यसेचक ऐश्वर्यवन् इसके पति ! ( यथा-इयम्) जिससे यह (सुपुत्रा सुभगा-असति) अच्छे पुत्रोंवाली सौभाग्यशाली होवे, वैसे इसको प्रसन्न रखना ॥२५॥
भावार्थभाषाः - विवाहसंस्कार हो जाने पर पितृगृह को तो वधू छोड़ देती है, परन्तु पतिगृह में बसती है। वहाँ सौभाग्य को प्राप्त होई अच्छे पुत्रों वाली बनती है ॥२५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इतः-प्रमुञ्चामि) हे वधु ! अस्मात् पितृकुलात् त्वां प्रमुञ्चामि (अमुतः-न) ततः पतिगृहात् खलु न पृथक् करोमि विवाहसंस्कारं कृत्वाऽहं पुरोहितः (अमुतः सुबद्धां करम्)  अमुत्र तत्र ‘सप्तमीस्थाने पञ्चमी व्यत्ययेन’ पत्या सह शोभनबद्धां त्वामहं करोमि (मीढ्वः-इन्द्र) हे वीर्यसेचक ऐश्वर्यवन्-अस्याः पते ! (यथा-इयं सुपुत्रा सुभगा-असति) एषा वधूः सुपुत्रा शोभनपुत्रवती सौभाग्यवती भवेत् तथा प्रसादयैनाम् ॥२५॥